स्वल्प परिवर्तन के साथ **
यह रचना (मात्रिक)
प्रार्थना
राधामाधव-दुर्गाहनुम- च्चरणाम्बुजसौरभरागभरम्।
शुभसंस्कृतसंस्कृतिबोधमहो ददतां नितरां संस्थानमिदम्।।। १
गावो$मृतदुग्धदुघा महिता अभयं विचरन्तु सुखेन भुवम्।
मृदु गुञ्जतु संस्कृतिमन्त्ररव: कुरुतां शं न: संस्थानमिदम्।। २
सुरभारतदेशयशांसि किरत् कविकोविदवृन्दकलां प्रददत्।
लक्ष्मीराणासुकृतं जनयद् हरतां नृमन: संस्थानमिदम्। ३
शिवगणपतिसंस्तवगानरवं कथयल्ललितं मधुरं सुखदम्।
रक्षत् सुरसंस्कृतिमेव नवं रमतां हृदये संस्थानमिदम्।। ४
सरित: प्रवहन्तु युगं विमला गङ्गादिमुखा जनजीवनदा:।
सुखिनो निवसन्तु जना मुदिता: सम्प्रार्थयते संस्थानमिदम्।। ५
Total donation
Projects funded
Kids need help
Our volunteers